ककुदशब्दान्तस्य बहुव्रीहेर् लोपो भवति समासान्तः अवस्थायां गम्यमानायाम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इत्य् उच्यते । असञ्जातं ककुदम् अस्य असञ्जातककुत् । बालः इत्य् अर्थः । पूर्णककुत् । मध्यमवयाः इत्य् अर्थः । उन्नतककुत् । वृद्धवयाः इत्य् अर्थः । स्थूलककुत् । वलवान् इत्य् अर्थः । यष्टिककुत् । नातिस्थूलो नातिकृशः इत्य् अर्थः । अवस्थायाम् इति किम् ? श्वेतककुदः ॥ त्रिककुत् पर्वते
kakudaśabdāntasya bahuvrīher lopo bhavati samāsāntaḥ avasthāyāṃ gamyamānāyām / kālādikṛtā vastudharmā vayaḥprabhṛtayaḥ avasthā ity ucyate / asañjātaṃ kakudam asya asañjātakakut / bālaḥ ity arthaḥ / pūrṇakakut / madhyamavayāḥ ity arthaḥ / unnatakakut / vṛddhavayāḥ ity arthaḥ / sthūlakakut / valavān ity arthaḥ / yaṣṭikakut / nātisthūlo nātikṛśaḥ ity arthaḥ / avasthāyām iti kim ? śvetakakudaḥ // trikakut parvate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.