उरःप्रभृत्यन्तात् बहुव्रीहेः कप्प्रत्ययो भवति । व्यूढम् उरः अस्य व्यूढोरस्कः । प्रियसर्पिष्कः । अवमुक्तोपानत्कः । पुमान् अनड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि । तत्र+इदं प्रयोजनम् - एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचन-बहुवचन-अन्तानां मा भूत् इति । तत्र शेषद् विभाषा (*५,४।१५४) इति विकल्प एव भवति इति । द्विपुमान्, द्विपुंस्कः । बहुपुमान्, बहुपुंस्कः । उरस् । सर्पिस् । उपानः । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालि । अर्थान् नञः अनर्थकः ॥ इनः स्त्रियाम्
uraḥprabhṛtyantāt bahuvrīheḥ kappratyayo bhavati / vyūḍham uraḥ asya vyūḍhoraskaḥ / priyasarpiṣkaḥ / avamuktopānatkaḥ / pumān anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni / tatra+idaṃ prayojanam - ekavacanāntānām eva grahaṇam iha vijñāyeta, dvivacana-bahuvacana-antānāṃ mā bhūt iti / tatra śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti / dvipumān, dvipuṃskaḥ / bahupumān, bahupuṃskaḥ / uras / sarpis / upānaḥ / pumān / anaḍvān / nauḥ / payaḥ / lakṣmīḥ / dadhi / madhu / śāli / arthān nañaḥ anarthakaḥ // inaḥ striyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.