इन्नन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये । बहवो दण्दिनः अस्यां शालायां बहुदण्दिका शाला । बहुच्छत्रिका । बहुस्वामिका नगरी । बहुवाग्मिका सभा । स्त्रियाम् इति किम् ? बहुदण्डी राजा, बहुदण्डिकः । शेषद्विभाषा (*५,४।१५४) इत्य् एतद् भवति ॥ नद्य्-ऋतश् च
innantād bahuvrīheḥ kap pratyayo bhavati striyāṃ viṣaye / bahavo daṇdinaḥ asyāṃ śālāyāṃ bahudaṇdikā śālā / bahucchatrikā / bahusvāmikā nagarī / bahuvāgmikā sabhā / striyām iti kim ? bahudaṇḍī rājā, bahudaṇḍikaḥ / śeṣadvibhāṣā (*5,4.154) ity etad bhavati // nady-ṛtaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.