देवताशब्दान्तात् प्रातिपदिकात् चतुर्थीसमर्थात् तादर्थे यत्प्रत्ययो भवति । तदर्थ एव तादर्थ्यम् । चातुवर्ण्यादित्वात् ष्यञ् । तद् इति प्रकृत्यर्थे निर्दिश्यते । आग्निदेवतायै इदम् अग्निदेवत्यम् । पितृदेवत्यम् । वायुदेवत्यम् ॥ पाद-अर्घाभ्यां च
devatāśabdāntāt prātipadikāt caturthīsamarthāt tādarthe yatpratyayo bhavati / tadartha eva tādarthyam / cātuvarṇyāditvāt ṣyañ / tad iti prakṛtyarthe nirdiśyate / āgnidevatāyai idam agnidevatyam / pitṛdevatyam / vāyudevatyam // pāda-arghābhyāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.