विनय इत्य् एवम् आदिभ्यः स्वार्थे ठक् प्रत्ययो भवति । विनय एव वैनयिकः । सामयिकः । औपयिकः । विभाषाग्रहणेन प्रत्ययो विकल्प्यते । विनय । समय । उपायाद्घ्रस्वत्वं च । सङ्गति । कथञ्चित् । अकस्मात् । समयाचार । उपचार । समाचार । व्यवहार । सम्प्रदान । समुत्कर्ष । समूह । विशेष । अत्यय । विनयादिः ॥ वाचो व्याहृत-अर्थायाम्
vinaya ity evam ādibhyaḥ svārthe ṭhak pratyayo bhavati / vinaya eva vainayikaḥ / sāmayikaḥ / aupayikaḥ / vibhāṣāgrahaṇena pratyayo vikalpyate / vinaya / samaya / upāyādghrasvatvaṃ ca / saṅgati / kathañcit / akasmāt / samayācāra / upacāra / samācāra / vyavahāra / sampradāna / samutkarṣa / samūha / viśeṣa / atyaya / vinayādiḥ // vāco vyāhṛta-arthāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.