व्याहृतः प्रकाशितो ऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक्प्रत्ययो भवति । पूर्वम्न्येन+उक्तार्थत्वात् सन्देशवाग् व्याहृतार्था इत्य् उच्यते । वाचिकं कथयति । वाचिकं श्रद्दधे । व्याहृतार्थायाम् इति किम् ? मधुरा वाक् देवदत्तस्य ॥ तद्युक्तात् कर्मणो ऽण्
vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe ṭhakpratyayo bhavati / pūrvamnyena+uktārthatvāt sandeśavāg vyāhṛtārthā ity ucyate / vācikaṃ kathayati / vācikaṃ śraddadhe / vyāhṛtārthāyām iti kim ? madhurā vāk devadattasya // tadyuktāt karmaṇo 'ṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.