व्याहृतार्थया वाचा यत् कर्म युक्तं, तदभिधायिनः कर्मशब्दात् स्वार्थे अण् प्रत्ययो भवति । कर्म एव कार्मणम् । वाचिकं श्रुत्वा तथैव यत् कर्म क्रियते तत् कार्मणम् इत्य् उच्यते । अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश् छन्दस्य् उपसङ्ख्यानम् । कुलाल एव कौलालः । वारुडः । नैषादः । कार्मारः । चाण्डालः । मैत्रः । आमित्रः । सान्नायानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्न- वैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः । एते ऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते । सान्नाय्यम् । आनुजावरः । आनुषूकः । आष्टुभः । चातुष्प्राश्यः । राक्षोघ्नम् । वैयातः । वैकृतः । वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः ॥ ओषधेर् अजातौ
vyāhṛtārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati / karma eva kārmaṇam / vācikaṃ śrutvā tathaiva yat karma kriyate tat kārmaṇam ity ucyate / aṇprakaraṇe kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś chandasy upasaṅkhyānam / kulāla eva kaulālaḥ / vāruḍaḥ / naiṣādaḥ / kārmāraḥ / cāṇḍālaḥ / maitraḥ / āmitraḥ / sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- vaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāḥ / ete 'ṇantāḥ svārthikāśchandasi bhāṣāyāṃ ceṣyante / sānnāyyam / ānujāvaraḥ / ānuṣūkaḥ / āṣṭubhaḥ / cātuṣprāśyaḥ / rākṣoghnam / vaiyātaḥ / vaikṛtaḥ / vārivaskṛtaḥ / āgrāyaṇaḥ / āgrahāyaṇaḥ / sāntapanaḥ // oṣadher ajātau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.