अतिक्रम्य ग्रहः अतिग्रहः । अचलनम् अव्यथनम् । क्षेपो निन्दा । अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति । वृत्तेन अतिगृह्यते वृत्ततो ऽतिगृह्यते । चारित्रेण अतिगृह्यते चारित्रतो ऽतिगृह्यते । सुष्ठुवृत्तवान् अन्यान् अतिक्रम्य वृत्तेन गृह्यते इत्य् अर्थः । अव्यथने - वृत्तेन न व्यथते वृत्ततो न व्यथते । चारित्रेण न व्यथते चारित्रतो न व्यथते । वृत्तेन न चलति इत्य् अर्थः । क्षेपे - वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः । चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः । वृत्तेन निन्दितः इत्य् अर्थः । अकर्तरि इति किम् ? देवदत्तेन क्षिप्तः ॥ हीयमान-पापयोगाच् च
atikramya grahaḥ atigrahaḥ / acalanam avyathanam / kṣepo nindā / atigrahādiviṣaye yā tṛtīyā tadantād vā tasiḥ pratyayo bhavati, sā cet kartari na bhavati / vṛttena atigṛhyate vṛttato 'tigṛhyate / cāritreṇa atigṛhyate cāritrato 'tigṛhyate / suṣṭhuvṛttavān anyān atikramya vṛttena gṛhyate ity arthaḥ / avyathane - vṛttena na vyathate vṛttato na vyathate / cāritreṇa na vyathate cāritrato na vyathate / vṛttena na calati ity arthaḥ / kṣepe - vṛttena kṣipto vṛttataḥ kṣiptaḥ / cāritreṇa kṣiptaḥ cāritrataḥ kṣiptaḥ / vṛttena ninditaḥ ity arthaḥ / akartari iti kim ? devadattena kṣiptaḥ // hīyamāna-pāpayogāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.