अधिकारो ऽयम् । आपादपरिसमाप्तेः ये प्रत्ययाः विहितास् ते समासान्तावयवा एकदेशाः भवन्ति, तद्ग्रहणेन गृह्यन्ते इति वेदितव्यम् । प्रयोजनम् - अव्ययीभाव-द्विगु-द्वन्द्व-तत्पुरुष-बहुव्रीहि-सञ्ज्ञाः । उपराजम् । अधिराजम् । न अव्ययीभावात् इत्य् एष विधिर् भवति, अनश् च (*५,४।१०८) इति टच् । द्विपुरी, तिर्पुरी इति । द्विगोः (*४,१।२१) इति ङीप् भवति । कटकवलयिनी । शङ्खनूपुरिणी । कोशनिषदिनी । स्रक्त्वचिनी । द्वन्द्वोपतापगर्ह्यात् इति इनिर् भवति । विधुरः । प्रधुरः । तत्पुरुषे तुल्यार्थ इत्य् एष स्वरो भवति । उच्चैर् धुरः । नीचैर् धुरः । बहुव्रीहौ प्रकृत्या पूर्वपदम् (*६,२।१) इत्य् एतद् भवति ॥ न पूजनात्
adhikāro 'yam / āpādaparisamāpteḥ ye pratyayāḥ vihitās te samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gṛhyante iti veditavyam / prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ / uparājam / adhirājam / na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) iti ṭac / dvipurī, tirpurī iti / dvigoḥ (*4,1.21) iti ṅīp bhavati / kaṭakavalayinī / śaṅkhanūpuriṇī / kośaniṣadinī / sraktvacinī / dvandvopatāpagarhyāt iti inir bhavati / vidhuraḥ / pradhuraḥ / tatpuruṣe tulyārtha ity eṣa svaro bhavati / uccair dhuraḥ / nīcair dhuraḥ / bahuvrīhau prakṛtyā pūrvapadam (*6,2.1) ity etad bhavati // na pūjanāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.