सङ्ख्येये यो बहुव्रीहिर् वर्तते तस्माद् अबहु-गण-अन्तात् डच् प्रत्ययो भवति । सङ्ख्ययाव्ययासन्न इति यो बहुव्रीहिः तस्य+इदं ग्रहणम् । उपदशाः । उपविंशाः । उपत्रिंशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । द्वित्राः । पञ्चषाः । पञ्चदशाः । सङ्ख्येये इति किम् ? चित्रगुः । शबलगुः । अबहुगणात् इति किम् ? उपबहवः । उपगणाः । अत्र स्वरे विशेषः । डच्प्रकरणे सङ्ख्यायास् तत्पुरुषस्य+उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम् । निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य । निश्चत्वारिंशानि यज्ञदत्तस्य । निर्गतस्त्रिंशतो ऽङ्गुलिभ्यो निस्त्रिंशः खड्गः ॥ ऋक्-पूर्-अब्-धूः-पथाम् आनक्षे
saṅkhyeye yo bahuvrīhir vartate tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati / saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ grahaṇam / upadaśāḥ / upaviṃśāḥ / upatriṃśāḥ / āsannadaśāḥ / adūradaśāḥ / adhikadaśāḥ / dvitrāḥ / pañcaṣāḥ / pañcadaśāḥ / saṅkhyeye iti kim ? citraguḥ / śabalaguḥ / abahugaṇāt iti kim ? upabahavaḥ / upagaṇāḥ / atra svare viśeṣaḥ / ḍacprakaraṇe saṅkhyāyās tatpuruṣasya+upasaṅkhyānaṃ kartavyaṃ nistriṃśādyartham / nirgatāni triṃśataḥ nistriṃśāni varṣāṇi devadattasya / niścatvāriṃśāni yajñadattasya / nirgatastriṃśato 'ṅgulibhyo nistriṃśaḥ khaḍgaḥ // ṛk-pūr-ab-dhūḥ-pathām ānakṣe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.