प्रति अनु अव इत्य् एवं पूर्वात् सामान्तात् लोमान्तात् च समासाद् अच् प्रत्ययो भवति । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । कृश्णोदक्पाण्डुपूर्वाया भूमेर् अच्प्रत्ययः स्मृतः । गोदावर्याश् च नद्याश् च सङ्ख्याया उत्तरे यदि ॥ कृष्णभूमः । पाण्डुभूमः । उदग्भूमः । पञ्चनदम् । पञ्चगोदावरम् । नदीभिश् च इति अव्ययीभावः । भूमेर् अपि सङ्ख्यापूर्वायाः अच् प्रत्यय इष्यते - द्विभूमः प्रासादः । त्रिभूमः । दशभूमकं सुत्रम् अन्यत्र अपि च दृश्यते - पद्मनाभः । ऊर्णनाभः । दीर्घरात्रः । समरात्रः । अरात्रः । तद् एतत् सर्वम् इह योगविभागं कृत्वा साधयन्ति ॥ अक्ष्णो ऽदर्शनात्
prati anu ava ity evaṃ pūrvāt sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati / pratisāmam / anusāmam / avasāmam / pratilomam / anulomam / avalomam / kṛśṇodakpāṇḍupūrvāyā bhūmer acpratyayaḥ smṛtaḥ / godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi // kṛṣṇabhūmaḥ / pāṇḍubhūmaḥ / udagbhūmaḥ / pañcanadam / pañcagodāvaram / nadībhiś ca iti avyayībhāvaḥ / bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ / tribhūmaḥ / daśabhūmakaṃ sutram anyatra api ca dṛśyate - padmanābhaḥ / ūrṇanābhaḥ / dīrgharātraḥ / samarātraḥ / arātraḥ / tad etat sarvam iha yogavibhāgaṃ kṛtvā sādhayanti // akṣṇo 'darśanāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.