एङः पदान्ताद् अति (*६,१।१०९) इत्य् अतः पदग्रहणम् अनुवर्तते । दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात् । दिवः पदस्य उकारादेशो भवति । दिवि कामो यस्य द्युकामः । द्युमान् । विमलद्यु दिनम् । द्युभ्याम् । द्युभिः । निरनुबन्धकग्रहणाद् इह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति । तपरकरनम् ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति । अत्र हि परत्वात् ऊट्ः प्राप्नोति । पदस्य इति किम् ? दिवौ । दिवः ॥ एतत्-तदोः सुलोपो ऽकोर् अनञ्समासे हलि
eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate / divaḥ iti prātipadikaṃ gṛhyate, na dhātuḥ, sānubandhakatvāt / divaḥ padasya ukārādeśo bhavati / divi kāmo yasya dyukāmaḥ / dyumān / vimaladyu dinam / dyubhyām / dyubhiḥ / niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti / taparakaranam ūṭho nivṛttyartham, dyubhyām, dyubhiḥ iti / atra hi paratvāt ūṭḥ prāpnoti / padasya iti kim ? divau / divaḥ // etat-tadoḥ sulopo 'kor anañsamāse hali
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.