तत्र ष्त्वं प्रति नत्वस्य सिद्धत्वाद् ज्ञलादिर् निष्ठा न भवति । कुत्वे तु कर्तव्ये तद् असिद्धम् एव इति प्रवर्तते कुत्वम् । ङिति - वृश्चति । वरीवृश्च्यते । प्रच्छ - पृष्टः । पृष्टवन् । ङिति - पृच्छति । परीपृछ्यते । प्रश्नः । नङि तु प्रश्ने च आसन्नकाले (*३,२।११७) इति निपातनाद् असंप्रसारणम् । भ्रस्ज - भृष्टः । भृष्टवान् । ङिति - भृज्जति । बरीभृज्यते । सकारस्य ज्ञलां जश् ज्ञशि (*७,४।५३) इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः (*८,४।४०) इति श्चुत्वेन जकारः ॥ लिट्य् अभ्यासस्य+उभयेषाम्
tatra ṣtvaṃ prati natvasya siddhatvād jñalādir niṣṭhā na bhavati / kutve tu kartavye tad asiddham eva iti pravartate kutvam / ṅiti - vṛścati / varīvṛścyate / praccha - pṛṣṭaḥ / pṛṣṭavan / ṅiti - pṛcchati / parīpṛchyate / praśnaḥ / naṅi tu praśne ca āsannakāle (*3,2.117) iti nipātanād asaṃprasāraṇam / bhrasja - bhṛṣṭaḥ / bhṛṣṭavān / ṅiti - bhṛjjati / barībhṛjyate / sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ, stoḥ ścunā ścuḥ (*8,4.40) iti ścutvena jakāraḥ // liṭy abhyāsasya+ubhayeṣām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.