मतोः पूर्वः आकार उदात्तो भवति तच् चेन् मत्वन्तं स्त्रीलिङ्गे सञ्ज्ञा भवति । उदुम्बरावती । पुष्करावती । वीरणावती । शरावती । शरादीनां च (*६,३।१२०) इति दीर्घः । आत् इति किम् ? इक्षुमती । द्रुमवती । सञ्ज्ञायम् इति किम् ? खट्वावती । स्त्रियाम् इति किम् ? शरावान् । मतोः इति किम् ? गवादिनी ॥ अन्तो ऽवत्याः
matoḥ pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ strīliṅge sañjñā bhavati / udumbarāvatī / puṣkarāvatī / vīraṇāvatī / śarāvatī / śarādīnāṃ ca (*6,3.120) iti dīrghaḥ / āt iti kim ? ikṣumatī / drumavatī / sañjñāyam iti kim ? khaṭvāvatī / striyām iti kim ? śarāvān / matoḥ iti kim ? gavādinī // anto 'vatyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.