कण्ठ पृष्ठ ग्रीवा जङ्घा इत्य् एतानि उत्तरपदानि बहुव्रीहौ समासे सञ्ज्ञौपम्ययोर् आद्युदात्तानि भवन्ति । कण्ठः सञ्ज्ञायाम् - शितिकण्ठः । नीलकण्ठः । औपम्ये - खरकण्ठः । उष्ट्रकण्ठः । पृष्ठः सञ्ज्ञायाम् - काण्डपृष्ठः । नाकपृष्ठः । औपम्ये - गोपृष्ठः । अजपृष्ठः । ग्रीवा सञ्ज्ञायाम् - सुग्रीवः । नीलग्रीवः । दशग्रीवः । औपम्ये - गोग्रीवः । अश्वग्रीवः । जङ्घा सञ्ज्ञायाम् - नाडीजङ्घः । तालजङ्घः । औपम्ये - गोजङ्घः । अश्वजङ्घः । एणीजङ्घः ॥ शृङ्गम् अवस्थायां च
kaṇṭha pṛṣṭha grīvā jaṅghā ity etāni uttarapadāni bahuvrīhau samāse sañjñaupamyayor ādyudāttāni bhavanti / kaṇṭhaḥ sañjñāyām - śitikaṇṭhaḥ / nīlakaṇṭhaḥ / aupamye - kharakaṇṭhaḥ / uṣṭrakaṇṭhaḥ / pṛṣṭhaḥ sañjñāyām - kāṇḍapṛṣṭhaḥ / nākapṛṣṭhaḥ / aupamye - gopṛṣṭhaḥ / ajapṛṣṭhaḥ / grīvā sañjñāyām - sugrīvaḥ / nīlagrīvaḥ / daśagrīvaḥ / aupamye - gogrīvaḥ / aśvagrīvaḥ / jaṅghā sañjñāyām - nāḍījaṅghaḥ / tālajaṅghaḥ / aupamye - gojaṅghaḥ / aśvajaṅghaḥ / eṇījaṅghaḥ // śṛṅgam avasthāyāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.