सोः उत्तरं मनन्तम् असन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा । सुकर्मा । सुधर्मा । सुप्रथिमा । असन्तम् - सुपयाः । सुयशाः । सुस्रोताः । सुस्रत् । सुध्वत् । सोः इति किम् ? कृतक्रमा । कृतयशाः । मनसी इति किम् ? सुराजा । सुतक्षा । अलोमोषसी इति किम् ? सुलोमा । सूषाः । अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्य् अनर्थकयोर् अपि मनसोर् इह ग्रहणम् । नञ्सुभ्याम् (*६,२।१७२) इत्य् अस्य अयम् अपवादः । कपि तु परत्वात् कपि पूर्वम् इत्य् एतद् भवति । सुकर्मकः । सुस्रोतस्कः ॥ क्रत्व्-आदयश् च
soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā / sukarmā / sudharmā / suprathimā / asantam - supayāḥ / suyaśāḥ / susrotāḥ / susrat / sudhvat / soḥ iti kim ? kṛtakramā / kṛtayaśāḥ / manasī iti kim ? surājā / sutakṣā / alomoṣasī iti kim ? sulomā / sūṣāḥ / aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti ity anarthakayor api manasor iha grahaṇam / nañsubhyām (*6,2.172) ity asya ayam apavādaḥ / kapi tu paratvāt kapi pūrvam ity etad bhavati / sukarmakaḥ / susrotaskaḥ // kratv-ādayaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.