उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च । चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । मुद्गचूर्णम् । मसूरचूर्णम् । अप्राणिषष्ठ्याः इति किम् ? मत्स्यचूर्णम् । षष्ठ्याः इति किम् ? परमचूर्णं । चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम । दलप । चमसी । चक्कन । चौल । चूर्णादिः । चूर्णादीन्य् प्राण्युपग्रहात् इति सूत्रस्य पाठान्तरम् । तत्र+उपग्रहः इति षष्ठ्यन्तम् एव पूर्वाचार्योपचारेण गृह्यते ॥ षट् च काण्डादीनि
uttarapadādiḥ iti vartate, tatpuruṣe iti ca / cūrṇādīni uttarapadāni aprāṇivācinaḥ ṣaṣṭhyantāt parāṇi tatpuruṣe samāse ādyudāttāni bhavanti / mudgacūrṇam / masūracūrṇam / aprāṇiṣaṣṭhyāḥ iti kim ? matsyacūrṇam / ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ / cūrṇa / karipa / kariva / śākina / śākaṭa / drākṣā / tūsta / kundama / dalapa / camasī / cakkana / caula / cūrṇādiḥ / cūrṇādīny prāṇyupagrahāt iti sūtrasya pāṭhāntaram / tatra+upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa gṛhyate // ṣaṭ ca kāṇḍādīni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.