सञ्ज्ञायां विषये गतिकारकोपपदाद् क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति आचितादीन् वर्जयित्वा । सम्भूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । सम्भूतः इति प्रत्यर्थात् भवतेः कर्मणि क्तः । गतिर् अनन्तरः (*६,२।४९) इत्य् अत्र हि कर्मणि इत्य् अनुवर्तते, तद्बाधनार्थं चेदम् । धनुष्खाता नदी । कुद्दालखातं नगरम् । हस्तिमृदिता भूमिः । तृतीया कर्मणि (*६,२।४८) इति प्राप्तिर् इह बाध्यते । अनाचितादीनाम् इति किम् ? आचितम् । अप्र्याचितम् । आस्वापितम् । परिगृहीतम् । नरुक्तम् । प्रतिपन्नम् । प्राश्लिष्टम् । उपहतम् । उपस्थितम् । संहिता ऽगवि । संहिताशब्दो यदा गोरन्यस्य सञ्ज्ञा तदा अन्तोदत्तो न भवति । यदा तु गोः सञ्ज्ञा तदा अन्तोदात्त एव ॥ प्रवृद्धादीनां च
sañjñāyāṃ viṣaye gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn varjayitvā / sambhūto rāmāyaṇaḥ / upahūtaḥ śākalyaḥ / parijagdhaḥ kauṇḍinyaḥ / sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ / gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ cedam / dhanuṣkhātā nadī / kuddālakhātaṃ nagaram / hastimṛditā bhūmiḥ / tṛtīyā karmaṇi (*6,2.48) iti prāptir iha bādhyate / anācitādīnām iti kim ? ācitam / apryācitam / āsvāpitam / parigṛhītam / naruktam / pratipannam / prāśliṣṭam / upahatam / upasthitam / saṃhitā 'gavi / saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati / yadā tu goḥ sañjñā tadā antodātta eva // pravṛddhādīnāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.