सञ्ज्ञायाम् इति वर्तते, क्तः इति च । सञ्ज्ञायां विषये आशिषि गम्यमानायां कारकाद् उत्तरयोः दत्तश्रुतयोर् एव क्तान्तयोर् अन्त उदात्तो भवति । देवा एनं देयासुः देवदत्तः । विष्णुरेनं श्रूयात् विष्णुश्रुतः । कारकात् इति किम् ? कारकान् नियमो मा भूत् । सम्भूतो रामायणः । दत्तश्रुतयोः इति किम् ? देवपालितः । एतस्मान् नियमाद् अत्र सञ्ज्ञायाम् अनाचितादीनाम् (*६,२।१४६) इत्य् अन्तोदात्तत्वं न भवति । तृतीया कर्मणि (*६,२।४८) इत्य् एव अत्र भवति । एवकारकरणं किम् ? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत् । अकारकाद् अपि दत्तश्रुतयोर् अन्त उदात्तो भवति । संश्रुतः । विश्रुतः । आशिषि इति किम् ? अनाअशिषि नियमो मा भूत् । देवैः खाता देवखाता । कारकाद् दत्तश्रुतयोर् आशिस्येव इत्य् एवम् अत्र नियम इष्यते । तेन आहतो नदति देवदत्तः इत्य् अत्र न भवति । देवदत्त इति कस्यचिच्छङ्खस्य नाम । तत्र तृतीया कर्मणि (*६,२।४८) इति पूर्वपदप्रकृतिस्वरत्वम् एव भवति ॥ इत्थंभूतेन कृतम् इति च
sañjñāyām iti vartate, ktaḥ iti ca / sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor anta udātto bhavati / devā enaṃ deyāsuḥ devadattaḥ / viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ / kārakāt iti kim ? kārakān niyamo mā bhūt / sambhūto rāmāyaṇaḥ / dattaśrutayoḥ iti kim ? devapālitaḥ / etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati / tṛtīyā karmaṇi (*6,2.48) ity eva atra bhavati / evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ mā bhūt / akārakād api dattaśrutayor anta udātto bhavati / saṃśrutaḥ / viśrutaḥ / āśiṣi iti kim ? anāaśiṣi niyamo mā bhūt / devaiḥ khātā devakhātā / kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate / tena āhato nadati devadattaḥ ity atra na bhavati / devadatta iti kasyacicchaṅkhasya nāma / tatra tṛtīyā karmaṇi (*6,2.48) iti pūrvapadaprakṛtisvaratvam eva bhavati // itthaṃbhūtena kṛtam iti ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.