मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्य् एतानि याजकादयः क्रीतशब्दश् च+उत्तरपदम् अनतोदात्तं भवति । मन् - रथवर्त्म । शकटवर्त्म । क्तिन् - पाणिनिकृतिः । आपिशलिकृतिः । व्याख्यान - ऋगयनव्याख्यानम् । छन्दोव्याख्यानम् । शयन - राजशयनम् । ब्राह्मणशयनम् । आसन - राजासनम् । ब्राह्मणासनम् । स्थान - गोस्थानम् । अश्वस्थानम् । याजकादिः - ब्राह्मणयाजकः । क्षत्रिययाजकः । ब्राह्मणपूजकः । क्षत्रियपूजकः । याजकादयो ये याजकदिभिश् च (*२,२।९) इति षष्ठीसमासार्थाः पठ्यन्ते त एव+इह गृह्यन्ते । क्रीत - गोत्रीतः । अश्वक्रीतः । कृत्स्वरापवादो ऽयं योगः । क्रीतशब्दे तु तृतीया कर्मणि (*६,२।४८) इत्य् अस्य अपवादः । व्याख्यानशयनासनस्थानानाम् अभावकर्मार्थं ग्रहणम् । कारकात् इत्य् एव, प्रकृतिः । प्रहृतिः ॥ सप्तम्याः पुण्यम्
mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati / man - rathavartma / śakaṭavartma / ktin - pāṇinikṛtiḥ / āpiśalikṛtiḥ / vyākhyāna - ṛgayanavyākhyānam / chandovyākhyānam / śayana - rājaśayanam / brāhmaṇaśayanam / āsana - rājāsanam / brāhmaṇāsanam / sthāna - gosthānam / aśvasthānam / yājakādiḥ - brāhmaṇayājakaḥ / kṣatriyayājakaḥ / brāhmaṇapūjakaḥ / kṣatriyapūjakaḥ / yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gṛhyante / krīta - gotrītaḥ / aśvakrītaḥ / kṛtsvarāpavādo 'yaṃ yogaḥ / krītaśabde tu tṛtīyā karmaṇi (*6,2.48) ity asya apavādaḥ / vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam / kārakāt ity eva, prakṛtiḥ / prahṛtiḥ // saptamyāḥ puṇyam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.