कृत्य उक इष्णुच् इत्य् एवम् अन्ताश् चार्वादयश् च नञः उत्तरे ऽन्तोदात्ताः भवन्ति । कृत्य - अकर्तव्यम् । अक-रणीयम् । उक - अनागामुकम् । अनपलाषुकम् । इष्णुच् - अनलङ्करिष्णुः । अनिराकरिष्णुः । इष्णुज् - ग्रहणे कर्तरि भुवः खिष्णुच् (*३,२।५७) इत्य् अस्य द्व्यनुबन्धकस्य अपि ग्रहणम् इकारादेर् विधानसामर्थ्याद् भवति । अनाढ्यम्भविष्णुः । असुभगम्भविष्णुः । चार्वादयः - अचारुः । असाधुः । अयौधिकः । अवदान्यः । चारु । साधु । यौधिक । अनङ्गमेजय । अत्र द्वितीये नञ्समासे ऽन्तोदात्तत्वम् । अननङ्गमेजयः । वदान्य । अकस्मात् । अत्र अपि द्वितीये नञ्समासे ऽन्तोदात्तत्वम् । अनकस्मात् । अवर्तमानवर्धमानत्वरमाणध्रियमाण। रोचमानशोभमानाः सञ्ज्ञायाम् । एते वर्तमानादयः सञ्ज्ञायां द्रष्दव्याः । विकारसदृशे व्यस्तसमस्ते । अविकारः । असदृशः । अविकारसदृशः । गृहपति । गृहपतिक । राजाह्नोश् छन्दसि । अराजा । अनहः । भाषायां नञ्स्वर एव भवति ॥ विभाषा तृन्न्-अन्न-तीक्ष्ण-शुचिषु
kṛtya uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti / kṛtya - akartavyam / aka-raṇīyam / uka - anāgāmukam / anapalāṣukam / iṣṇuc - analaṅkariṣṇuḥ / anirākariṣṇuḥ / iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād bhavati / anāḍhyambhaviṣṇuḥ / asubhagambhaviṣṇuḥ / cārvādayaḥ - acāruḥ / asādhuḥ / ayaudhikaḥ / avadānyaḥ / cāru / sādhu / yaudhika / anaṅgamejaya / atra dvitīye nañsamāse 'ntodāttatvam / ananaṅgamejayaḥ / vadānya / akasmāt / atra api dvitīye nañsamāse 'ntodāttatvam / anakasmāt / avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām / ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ / vikārasadṛśe vyastasamaste / avikāraḥ / asadṛśaḥ / avikārasadṛśaḥ / gṛhapati / gṛhapatika / rājāhnoś chandasi / arājā / anahaḥ / bhāṣāyāṃ nañsvara eva bhavati // vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.