जातिवाचिनः आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश् च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासे ऽन्तोदात्तं भवति । सारङ्गजग्धः । पलाण्डुभक्षितः । सुरापीतः । काल - मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः । सुखादिभ्यः - सुखजातः । दुःखजातः । तृप्रजातः । जात्यादिभ्यः इति किम् ? पुत्रजातः । आहिताग्न्यादित्वात् परनिपातः । अनाच्छादनात् इति किम् ? वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्नाः इति किम् ? कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्य् एव अस्माद् एव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः । सुखादयस्तृतीये ऽध्याये पठ्यन्ते ॥ वा जाते
jātivācinaḥ ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kṛtamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati / sāraṅgajagdhaḥ / palāṇḍubhakṣitaḥ / surāpītaḥ / kāla - māsajātaḥ / saṃvatsarajātaḥ / dvyahajātaḥ / tryahajātaḥ / sukhādibhyaḥ - sukhajātaḥ / duḥkhajātaḥ / tṛprajātaḥ / jātyādibhyaḥ iti kim ? putrajātaḥ / āhitāgnyāditvāt paranipātaḥ / anācchādanāt iti kim ? vastracchannaḥ / vasanacchannaḥ / akṛtamitapratipannāḥ iti kim ? kuṇḍakṛtaḥ / kuṇḍamitaḥ / kuṇḍapratipannaḥ / etesu bahuvrīhiṣu niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt / pratyudāharaṇeṣu pūrvapadaprakṛtisvaro yojayitavyaḥ / sukhādayastṛtīye 'dhyāye paṭhyante // vā jāte
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.