प्रतेर् अंश्वादयस् तत्पुरुषे समासे ऽन्तोदात्ताः भवन्ति । प्रतिगतः अंशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । राजशब्दः समासान्तस्य अनित्यत्वाद् यदा टज् न अस्ति तदा प्रयोजयति । तस्मिन् हि सति चित्त्वाद् एव अन्तोदात्तत्वं सिद्धम् । तत्पुरुषे इति किम् ? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयम् उष्ट्रः । अंशु । जन । राजन् । उष्ट्र । खेटक । अजिर । आर्द्रा । श्रवण । कृत्तिका । अर्ध । पुर ॥ उपाद् द्व्यज्-अजिनम् अगौरादयः
prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti / pratigataḥ aṃśuḥ pratyaṃśuḥ / pratijanaḥ / pratirājā / rājaśabdaḥ samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati / tasmin hi sati cittvād eva antodāttatvaṃ siddham / tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ asya pratyaṃśuḥ ayam uṣṭraḥ / aṃśu / jana / rājan / uṣṭra / kheṭaka / ajira / ārdrā / śravaṇa / kṛttikā / ardha / pura // upād dvyaj-ajinam agaurādayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.