उपमान - शस्त्रीश्यामा । कुमुदश्येनी । हंसगद्गदा । न्यग्रोधपरिमण्डला । दूर्वाकाण्डश्यामा । शरकाण्डगौरी । उपमानानि सामान्यवचनैः (*२,१।५५) इति समासः । शस्त्रीशब्दो ङीष्प्रत्ययान्तो ऽन्तोदात्तः । कुमुदशब्दो ऽपि कौ मोदते इति मूलविभुजादित्वात् कप्रत्ययान्तः, नब्विषयस्य अनिसन्तस्य इति वा आद्युदात्तः । हंसशब्दो वॄतॄविदिहनिकमिकशिभ्यः सः इति सप्रत्ययन्तः । न्यग्रोहति इति न्यग्रोधः, पचादित्वाद् अच्प्रत्ययान्तः तस्य न्यग्रोधस्य च केवलस्य (*७,३।५) इति निपातनाद् हकारस्य धकारो मध्योदात्तत्वं च । दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषाव् उत्तरपदाद्युदातौ । उपमान । अव्यय - अब्राह्मणः । अवृषलः । कुब्राह्मणः । कुवृषलः । निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः । एतान्य् अव्ययान्य् आद्युदात्तानि । अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् । इह मा भूत्, स्नत्वाकालकः इति । अव्यय । द्वितीया - मुहूर्तसुखम् । मुहूर्तरमणीयम् । सर्वरात्रकल्याणी । सर्वरात्रशीभना । अत्यन्तसंयोगे च (*२,२।२१) इति द्वितीयासमसः । मुहूर्तशब्दः पृषोदरादिर् अन्तोदात्तः । सर्वरात्रशब्दो ऽप्य् अच्प्रत्ययान्तः । द्वितीया । कृत्य - भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरणीयचूर्णम् । भोज्यशब्दो ण्यदन्तो ऽन्तस्वरितः । पाणीयहरणीयशब्दयोः उपोत्तमं रिति (*६,१।२१७) इति ईकार उदात्तः ॥ वर्णो वर्नेष्व् अनेते
upamāna - śastrīśyāmā / kumudaśyenī / haṃsagadgadā / nyagrodhaparimaṇḍalā / dūrvākāṇḍaśyāmā / śarakāṇḍagaurī / upamānāni sāmānyavacanaiḥ (*2,1.55) iti samāsaḥ / śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ / kumudaśabdo 'pi kau modate iti mūlavibhujāditvāt kapratyayāntaḥ, nabviṣayasya anisantasya iti vā ādyudāttaḥ / haṃsaśabdo vṝtṝvidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ / nyagrohati iti nyagrodhaḥ, pacāditvād acpratyayāntaḥ tasya nyagrodhasya ca kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro madhyodāttatvaṃ ca / dūrvākāṇḍaśarakāṇḍaśabdau ṣaṣṭhītatpuruṣāv uttarapadādyudātau / upamāna / avyaya - abrāhmaṇaḥ / avṛṣalaḥ / kubrāhmaṇaḥ / kuvṛṣalaḥ / niṣkauśāmbiḥ / nirvārāṇasiḥ / atikhaṭvaḥ / atimālaḥ / etāny avyayāny ādyudāttāni / avyaye nañkunipātānām iti vaktavyam / iha mā bhūt, snatvākālakaḥ iti / avyaya / dvitīyā - muhūrtasukham / muhūrtaramaṇīyam / sarvarātrakalyāṇī / sarvarātraśībhanā / atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ / muhūrtaśabdaḥ pṛṣodarādir antodāttaḥ / sarvarātraśabdo 'py acpratyayāntaḥ / dvitīyā / kṛtya - bhojyoṣṇam / bhojyalavaṇam / pānīyaśītam / haraṇīyacūrṇam / bhojyaśabdo ṇyadanto 'ntasvaritaḥ / pāṇīyaharaṇīyaśabdayoḥ upottamaṃ riti (*6,1.217) iti īkāra udāttaḥ // varṇo varneṣv anete
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.