तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिर् अनन्तरः प्रकृतिस्वरो भवति । प्रकर्ता । प्रकर्तुम् । प्रकृतिः । प्रकर्ता इति तृन्नन्तः । कृत्स्वरबाधनार्थं वचनम् । तादौ इति किम् ? प्रजल्पाकः । निति इति किम् ? प्रकर्ता । तृजन्तः । कृद्ग्रहणम् उपदेशे ताद्यर्थम् । इह अपि यथा स्यात्, प्रलपिता । प्रलपितुम् । अतौ इति किम् ? आगन्तुः ॥ तवै च अन्तश् च युगपत्
takārādau ca tuśabdavarjite niti kṛti parato gatir anantaraḥ prakṛtisvaro bhavati / prakartā / prakartum / prakṛtiḥ / prakartā iti tṛnnantaḥ / kṛtsvarabādhanārthaṃ vacanam / tādau iti kim ? prajalpākaḥ / niti iti kim ? prakartā / tṛjantaḥ / kṛdgrahaṇam upadeśe tādyartham / iha api yathā syāt, pralapitā / pralapitum / atau iti kim ? āgantuḥ // tavai ca antaś ca yugapat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.