सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दाद् अन्यस्मिन्न् उत्तरपदे आद्युदात्तं भवति । हारि इति देयं यः स्वीकरोति सो ऽभिधीयते । धम्र्यम् इत्य् आचारनियतं देयम् उच्यते । धर्मो हि अनुवृत्त आचारः, तस्माद् अनपेतं तेन वा प्राप्यम् इति । स्तूपेशाणः । मुकुटेकार्षापणम् । हलेद्विपदिका । हलेत्रिपदिका । दृषदिमाषकः । सञ्ज्ञायाम् इति सप्तमीसमासः, कारनाम्नि च इति विभक्तेर् अलुक् । हारिणि - याज्ञिकाश्वः । वैयाकरणहस्ती । मातुलाश्वः । पितृव्यगवः । क्वचिद् अयम् आचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनाम् अश्वादि इति । धर्म्ये इति किम् ? स्तम्बेरमः । कर्मकरवर्धितकः । अहरणे इति किम् ? वाडवहरणम् । वडवायाः अयं वाडवः । तस्य बीजनिषेकाद् उत्तरकालं शरीरपूष्ट्यर्थं यद् दीयते हरणम् इति तद् उच्यते । परो ऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्य् एतद् अहरणे इत्य् अनेन ज्ञाप्यते, तेन वाडवहार्यम् इति हारिस्वरः सिद्धो भवति ॥ युक्ते च
saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati / hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate / dhamryam ity ācāraniyataṃ deyam ucyate / dharmo hi anuvṛtta ācāraḥ, tasmād anapetaṃ tena vā prāpyam iti / stūpeśāṇaḥ / mukuṭekārṣāpaṇam / haledvipadikā / haletripadikā / dṛṣadimāṣakaḥ / sañjñāyām iti saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk / hāriṇi - yājñikāśvaḥ / vaiyākaraṇahastī / mātulāśvaḥ / pitṛvyagavaḥ / kvacid ayam ācāro vyavasthitaḥ, stūpādiṣu śāṇādi dātavyam, yājñikādīnām aśvādi iti / dharmye iti kim ? stamberamaḥ / karmakaravardhitakaḥ / aharaṇe iti kim ? vāḍavaharaṇam / vaḍavāyāḥ ayaṃ vāḍavaḥ / tasya bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate / paro 'pi kṛtsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati // yukte ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.