आदिर् उदात्तः इत्य् एतद् अधिकृतम् । इत उत्तरं यद् वक्ष्यामः तत्र पूर्वपदस्य आदिर् उदात्तो भवति इत्य् एवं तद्वेदितव्यम् । वक्ष्यति - सप्तमीहारिणौ धर्म्ये ऽहरणे (*६,२।६५) इति । स्तूपेशाणः । सुकुटेकार्षापणम् । याज्ञिकाश्वः । वैयाकरणहस्ती । दृषदिमाषकः । आदिर् इति प्रागन्ताधिकारात् । उदात्तः इति प्रकृत्या भगालम् (*६,२।१३७) इति यावत् ॥ सप्तमीहारिणौ धर्म्ये ऽहरणे
ādir udāttaḥ ity etad adhikṛtam / ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādir udātto bhavati ity evaṃ tadveditavyam / vakṣyati - saptamīhāriṇau dharmye 'haraṇe (*6,2.65) iti / stūpeśāṇaḥ / sukuṭekārṣāpaṇam / yājñikāśvaḥ / vaiyākaraṇahastī / dṛṣadimāṣakaḥ / ādir iti prāgantādhikārāt / udāttaḥ iti prakṛtyā bhagālam (*6,2.137) iti yāvat // saptamīhāriṇau dharmye 'haraṇe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.