अणन्ते उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति । छत्रधारः । तूणीरघारः । कमण्डलुग्राहः । भृङ्गारधारः । नियुक्तो ऽधिकृतः, स च कस्मिंश्चित् कर्तव्ये तत्परो न भवति इति नियुक्तः इत्य् अनेन सिध्यति । नियुक्तः इति किम् ? काण्डलावः । शरलावः ॥ शिल्पिनि च अकृञः
aṇante uttarapade niyuktavācini samāse pūrvapadam ādyudāttaṃ bhavati / chatradhāraḥ / tūṇīraghāraḥ / kamaṇḍalugrāhaḥ / bhṛṅgāradhāraḥ / niyukto 'dhikṛtaḥ, sa ca kasmiṃścit kartavye tatparo na bhavati iti niyuktaḥ ity anena sidhyati / niyuktaḥ iti kim ? kāṇḍalāvaḥ / śaralāvaḥ // śilpini ca akṛñaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.