प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति । उद्दालकपुष्पभज्जिका । वीरणुपुष्पप्रचायिका । शालभञ्जिका । तालभञ्जिका । सञ्ज्ञायम् (*३,३।१०९) इति ण्वुल् । नित्यं क्रीडाजीविकयोः (*२,२।१७) इति षष्ठीसमासः । प्राचाम् इति किम् ? जीवपुत्रप्रचायिका । इयम् उदीचां क्रीडा । क्रीडायाम् इति किम् ? तवपुष्पप्रचायिका । पर्याये ण्वुच्प्रत्ययो भवति ॥ अणि नियुक्ते
prāgdeśavartināṃ yā krīḍā tadvācini samāse akapratyayānte uttarapade pūrvapadam ādyudāttaṃ bhavati / uddālakapuṣpabhajjikā / vīraṇupuṣpapracāyikā / śālabhañjikā / tālabhañjikā / sañjñāyam (*3,3.109) iti ṇvul / nityaṃ krīḍājīvikayoḥ (*2,2.17) iti ṣaṣṭhīsamāsaḥ / prācām iti kim ? jīvaputrapracāyikā / iyam udīcāṃ krīḍā / krīḍāyām iti kim ? tavapuṣpapracāyikā / paryāye ṇvucpratyayo bhavati // aṇi niyukte
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.