ग्रामशब्दे उत्तरपदे पूर्वपदम् आद्युदात्तं भवति न चेद् निवसद्वाचि भवति । मल्लग्रामः । विणिग्ग्रामः । ग्रामशब्दो ऽत्र समूहवाची । देवग्रामः । देवस्वामिकः इत्य् अर्थः । अनिवसन्तः इति किम् ? दाक्षिग्रामः । माहकिग्रामः । दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे स तेषाम् इति व्यपदिश्यते ॥ घोष-आदिषु च
grāmaśabde uttarapade pūrvapadam ādyudāttaṃ bhavati na ced nivasadvāci bhavati / mallagrāmaḥ / viṇiggrāmaḥ / grāmaśabdo 'tra samūhavācī / devagrāmaḥ / devasvāmikaḥ ity arthaḥ / anivasantaḥ iti kim ? dākṣigrāmaḥ / māhakigrāmaḥ / dākṣyādayo nivasanti yasmin grāme sa teṣām iti vyapadiśyate // ghoṣa-ādiṣu ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.