घ्षादिषु च+उत्तरपदेषु पूर्वपदम् आद्युदात्तं भवति । दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्वलः । दाक्षिह्रदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षा । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दाक्षिशाल्मली । आश्रममुनिः । शाल्मलिमुनिः । दाक्षिप्रेक्षा । दाक्षिकूटः । यान्य् अत्र निवासनाम् अधेयानि तेषु निवसद्वाचीनि अपि पूर्वपदानि आद्युदात्तानि भवन्ति । अनिवसन्तः इति न अनुवर्तयन्ति केचित् । अपरे पुनर् अनुवर्तयन्ति ॥ छात्र्य्-आदयः शालायाम्
ghṣādiṣu ca+uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati / dākṣighoṣaḥ / dākṣikaṭaḥ / dākṣipalvalaḥ / dākṣihradaḥ / dākṣibadarī / dākṣipiṅgalaḥ / dākṣipiśaṅgaḥ / dākṣiśālaḥ / dākṣirakṣā / dākṣiśilpī / dākṣyaśvatthaḥ / kundatṛṇam / dākṣiśālmalī / āśramamuniḥ / śālmalimuniḥ / dākṣiprekṣā / dākṣikūṭaḥ / yāny atra nivāsanām adheyāni teṣu nivasadvācīni api pūrvapadāni ādyudāttāni bhavanti / anivasantaḥ iti na anuvartayanti kecit / apare punar anuvartayanti // chātry-ādayaḥ śālāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.