प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितम् अवृद्धं पूर्वपदम् आद्युदात्तं भवति । इन्द्रप्रस्थः । कुण्डप्रस्थः । ह्रदप्रस्थः । सुवर्णप्रस्थः । अवृद्धम् इति किम् ? दाक्षिप्रस्थः । माहकिप्रस्थः । अकर्क्यादीनाम् इति किम् ? कर्कीप्रस्थः । मघीप्रस्थः । कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । बदर । कर्क्यादिः ॥ मालादीनां च
prasthaśabde uttarapade karkyādivarjitam avṛddhaṃ pūrvapadam ādyudāttaṃ bhavati / indraprasthaḥ / kuṇḍaprasthaḥ / hradaprasthaḥ / suvarṇaprasthaḥ / avṛddham iti kim ? dākṣiprasthaḥ / māhakiprasthaḥ / akarkyādīnām iti kim ? karkīprasthaḥ / maghīprasthaḥ / karkī / maghī / makarī / karkandhū / śamī / karīra / kaṭuka / kurala / badara / karkyādiḥ // mālādīnāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.