घ-सञ्ज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति । घ - पूर्वह्णेतरे, पूर्वाह्णतरे । पूर्वाह्णेतमे, पूर्वाह्णतमे । काल - पूर्वाह्णेकाले, पूर्वह्णाकाले । तन - पूर्वाह्णेतने, पूर्वाह्णतने । कालनाम्नः इति किम् ? शुक्लतरे । शुक्लतमे । हलदन्ताद् इत्य् एव, रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर् न+इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात् । तेन घतनग्रहणे, तदन्तग्रहनं न भवति । काल इति न स्वरूपग्रहणम् ॥ शय-वास-वासिष्व् अकलात्
gha-sañjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati / gha - pūrvahṇetare, pūrvāhṇatare / pūrvāhṇetame, pūrvāhṇatame / kāla - pūrvāhṇekāle, pūrvahṇākāle / tana - pūrvāhṇetane, pūrvāhṇatane / kālanāmnaḥ iti kim ? śuklatare / śuklatame / haladantād ity eva, rātritarāyām / uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hṛdayasya hṛllekha iti lekhagrahaṇāl liṅgāt / tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati / kāla iti na svarūpagrahaṇam // śaya-vāsa-vāsiṣv akalāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.