श्नान्तानाम् अङ्गानाम् अभ्यस्तानां च घुवर्जितानाम् आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः । लुनीतः । पुनीतः । लुनीथः । पुनीथः । लुनीते । पुनीते । अभ्यस्तानाम् - मिमीते । मिमीषे । मिमीध्वे । संजिहीते । संजिहीषे । संजिहीध्वे । हलि इति किम् ? लुनन्ति । मिमते । अघोः इति किम् ? दत्तः । धत्तः । क्ङिति इत्य् एव, लुनाति । जहाति ॥ इद् दरिद्रस्य
śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ / lunītaḥ / punītaḥ / lunīthaḥ / punīthaḥ / lunīte / punīte / abhyastānām - mimīte / mimīṣe / mimīdhve / saṃjihīte / saṃjihīṣe / saṃjihīdhve / hali iti kim ? lunanti / mimate / aghoḥ iti kim ? dattaḥ / dhattaḥ / kṅiti ity eva, lunāti / jahāti // id daridrasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.