अप् इत्य् एतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्य् एतेषां चाङ्गानाम् उपधाया दीर्घो भवति सर्वनामस्थाने परतो ऽसम्बुद्धौ । अप् - आपः । बह्वाम्पि तडागानि इति केचिद् इच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते । नित्यम् अपि च नुममकृत्व दीर्घत्वम् इष्यते । तृन् - कर्तारौ कटान् । वदितारौ जनापवादान् । कर्तारः । तृच् - कर्तारौ कटस्य । कर्तारः । हर्तारौ भारस्य । हर्तारः । स्वसृ - स्वसा, स्वसारौ, स्वसारः । नप्तृ - नप्ता, नप्तारौ, नप्तारः । नेष्टृ - नेष्टा, नेष्टारौ, नेष्टारः । त्वष्टृ - त्वष्टा, त्वष्टारौ, त्वष्टारः । क्षत्तृ - क्षत्ता, क्षत्तारौ, क्षत्तारः । होतृ - होता, होतारौ, होतारः । पोतृ - पोता, पोतारौ, पोतारः । प्रशास्तृ - प्रशास्ता, प्रशास्तारौ, प्रशास्तारः । नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम् । व्युत्पत्तिपक्षे नियमार्थम्, एवम् भूतानाम् अन्येषां सञ्ज्ञाशब्दानां दीर्घो मा भूत् इति । पितरौ, पितरः । मातरौ,मातरः । असम्बुद्धौ इति किम् ? हे कर्तः । हे स्वसः ॥ इन्-हन्-पूष-अर्यम्णां शौ
ap ity etasya, tṛnantasya, tṛjantasya, svasṛ naptṛ neṣṭṛ tvaṣtṛ kṣattṛ hotṛ potṛ paśāstṛ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau / ap - āpaḥ / bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate / nityam api ca numamakṛtva dīrghatvam iṣyate / tṛn - kartārau kaṭān / vaditārau janāpavādān / kartāraḥ / tṛc - kartārau kaṭasya / kartāraḥ / hartārau bhārasya / hartāraḥ / svasṛ - svasā, svasārau, svasāraḥ / naptṛ - naptā, naptārau, naptāraḥ / neṣṭṛ - neṣṭā, neṣṭārau, neṣṭāraḥ / tvaṣṭṛ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ / kṣattṛ - kṣattā, kṣattārau, kṣattāraḥ / hotṛ - hotā, hotārau, hotāraḥ / potṛ - potā, potārau, potāraḥ / praśāstṛ - praśāstā, praśāstārau, praśāstāraḥ / naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham / vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho mā bhūt iti / pitarau, pitaraḥ / mātarau,mātaraḥ / asambuddhau iti kim ? he kartaḥ / he svasaḥ // in-han-pūṣa-aryamṇāṃ śau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.