शिखण्डिनः शैखण्डाः । सूकरसद्मनः सौकरसद्माः । सुपर्वणः सौपर्णाः । अश्मनो विकार उपसङ्ख्यानम् । अश्मनो विकारः आश्मः । अश्मनो ऽन्यः । चर्मणः कोश उपसङ्ख्यानम् । चार्मः कोशः । चार्मणो ऽन्यः । शुनः सङ्कोच उपसङ्ख्यानम् । शौवः सङ्कोचः । शौवनो ऽन्यः । अव्ययानां च सायंप्रतिकाद्यर्थम् उपसङ्ख्यानम् । के पुनः सायंप्रातिकादयः ? येषाम् अव्ययानाम् अविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः । सायंप्रातर्भवः सायंप्रातिकः । पौनःपुनिकः । बाह्यः । कौतस्कुतः । कालाट् ठञ् (*४,३।११) इति ठञ्प्रत्ययः । ट्युट्युलौ तु नेष्येते । आरातीयः, शाश्वतिकः, शाश्वतः इत्य् एवम् आदिषु न दृश्यते टिलोपः ॥ अह्नष् ट-खेर् एव
śikhaṇḍinaḥ śaikhaṇḍāḥ / sūkarasadmanaḥ saukarasadmāḥ / suparvaṇaḥ sauparṇāḥ / aśmano vikāra upasaṅkhyānam / aśmano vikāraḥ āśmaḥ / aśmano 'nyaḥ / carmaṇaḥ kośa upasaṅkhyānam / cārmaḥ kośaḥ / cārmaṇo 'nyaḥ / śunaḥ saṅkoca upasaṅkhyānam / śauvaḥ saṅkocaḥ / śauvano 'nyaḥ / avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam / ke punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, prayoge ca dṛśyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ / sāyaṃprātarbhavaḥ sāyaṃprātikaḥ / paunaḥpunikaḥ / bāhyaḥ / kautaskutaḥ / kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ / ṭyuṭyulau tu neṣyete / ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dṛśyate ṭilopaḥ // ahnaṣ ṭa-kher eva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.