इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे - दाक्षी । प्लाक्षी । सखी । सवर्नदीर्घत्वे हि सति अतिसखेर् आगच्छति इत्य् अत्र एकादेशस्य अन्तवत्त्वाद् अस्खि इति घिसञ्ज्ञायाः प्रतिषेधः स्यात् । इवर्णान्तस्य तद्धिते - दुलि - दौलेयः । वलि - वालेयः । अत्रि - आत्रेयः । अवर्णान्तस्य ईकारे - कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते - दाक्षिः । प्लाक्षिः । चौडिः । बालाकिः । सौमित्रिः । यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः । काण्डे । कुड्ये । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते यस्य+इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (*६,४।१४९) इति च लोपः प्राप्नोति । इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः । चतुष्पाद्भ्यो डञ् (*४,१।१३५) इति ढञ्प्रत्ययः । लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः ॥ सूर्य-तिष्य-अगस्त्य-मत्स्यानां य उपधायाः
ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati / ivarṇāntasya īkāre - dākṣī / plākṣī / sakhī / savarnadīrghatve hi sati atisakher āgacchati ity atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt / ivarṇāntasya taddhite - duli - dauleyaḥ / vali - vāleyaḥ / atri - ātreyaḥ / avarṇāntasya īkāre - kumārī / gaurī / śārṅgaravī / avarṇāntasya taddhite - dākṣiḥ / plākṣiḥ / cauḍiḥ / bālākiḥ / saumitriḥ / yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ / kāṇḍe / kuḍye / saurye himavataḥ śṛṅge / auṅaḥ śībhāve kṛte yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti / iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena / vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ / catuṣpādbhyo ḍañ (*4,1.135) iti ḍhañpratyayaḥ / lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ // sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.