मत्स्यस्य ङ्याम् इति वक्तव्यम् । इह मा भूत्, मत्स्यस्य+इदं मांसं मात्स्यम् । सूर्यागस्त्ययोश्छे च ग्यां च । सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत्, सौर्यम् चरुं निर्वपेत् । आगस्त्यः । तिष्यपुष्ययोर् नक्षत्राणि । तिष्येण नक्षत्रेण युक्तः कालः तैषः । पौषः । अन्तिकस्य तसि कादिलोप आद्युदात्तं च । अन्तिकशब्दस्य तसिप्रत्यये परतः ककारदेः शब्दस्य लोपः, आद्युदात्तत्वम् च । अन्तितो न दूरात् । तमे तादेश् च । तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश् च लोपो वक्तव्यः । तत्र तादिलोपे - अन्तमः । कादिलोपे - अन्तितमः । कादिलोपे बहुलम् इति वक्तव्यम् । अन्यत्र अपि हि वृश्यते, अन्तिके सीदति इति अन्तिषत् । पूर्वपदात् (*८,३।१०६) इति षत्वम् । ये च । अन्तियः ॥ हलस् तद्धितस्य
matsyasya ṅyām iti vaktavyam / iha mā bhūt, matsyasya+idaṃ māṃsaṃ mātsyam / sūryāgastyayośche ca gyāṃ ca / saurīyaḥ / saurī / āgastīyaḥ / āgastī / iha mā bhūt, sauryam caruṃ nirvapet / āgastyaḥ / tiṣyapuṣyayor nakṣatrāṇi / tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ / pauṣaḥ / antikasya tasi kādilopa ādyudāttaṃ ca / antikaśabdasya tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca / antito na dūrāt / tame tādeś ca / tamapratyaye antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ / tatra tādilope - antamaḥ / kādilope - antitamaḥ / kādilope bahulam iti vaktavyam / anyatra api hi vṛśyate, antike sīdati iti antiṣat / pūrvapadāt (*8,3.106) iti ṣatvam / ye ca / antiyaḥ // halas taddhitasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.