आडागमो भवति अजादीनां लुङ्-लङ्-लृङ्-क्षु परतः, उदात्तश् च स भवति । ऐक्षिष्ट । ऐहिष्ट । औब्जीत् । औम्भीत् । लङ् - ऐक्षत । ऐहत । औब्जत् । औम्भत् । लृङ् - ऐक्षिष्यत । ऐहिष्यत । औब्जिष्यत् । औम्भिष्यत् । इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायाम् अडागमाद् अन्तरङ्गत्वाल् लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वाद् अडागमं बाधते । शब्दान्तरप्राप्तेर् अडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति । ननु शब्दान्तराद् इति विकरणो ऽनित्यः ? विकरणे कृते सम्प्रसारणम् अडागमान् नित्यत्वाद् एव भवति, सम्प्रसारणे च कृते ऽजाद्यङ्गं जातम् इति आडजादीनाम् इत्य् आडागमः ॥ छन्दस्य् अपि दृश्यते
āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lṛṅ-kṣu parataḥ, udāttaś ca sa bhavati / aikṣiṣṭa / aihiṣṭa / aubjīt / aumbhīt / laṅ - aikṣata / aihata / aubjat / aumbhat / lṛṅ - aikṣiṣyata / aihiṣyata / aubjiṣyat / aumbhiṣyat / iha aijyata, aupyata, auhyata iti laṅi kṛte lāvasthāyām aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kṛte vikaraṇo nityatvād aḍāgamaṃ bādhate / śabdāntaraprāpter aḍāgamasya anityatvam, kṛte hi vikaraṇāntasya aṅgasya tena bhavitavyam, akṛte tu dhātumātrasya śabdāntarasya prāpnuvan vidhiranityo bhavati / nanu śabdāntarād iti vikaraṇo 'nityaḥ ? vikaraṇe kṛte samprasāraṇam aḍāgamān nityatvād eva bhavati, samprasāraṇe ca kṛte 'jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ // chandasy api dṛśyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.