श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्ण-उवर्णान्तस्य भ्रु इत्य् एतस्य इयङ् उवङ् इत्य् एताव् आदेशौ भवतो ऽजादौ प्रत्यये परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति । धातोः - चिक्षियतुः । चिक्षियुः । लुलुवतुः । लुलुवुः । नियौ । नियः । लुवौ । लुवः । भ्रुवौ । भ्रुवः । अचि इति किम् ? आप्नुयात् । शक्नुयात् । साध्नुयात् । श्नुधातुभ्रुवाम् इति किम् ? लक्ष्म्यौ । वध्वै । य्वोः इति किम् ? चक्रतुः । चक्रुः । इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम् । चायकः । लवनम् । लावकः । इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम् उपसङ्ख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पुषेम । विषुवं पुषेम । स्वर्गो लोकः । सुवर्गो लोकः । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥ अभ्यासस्य असवर्णे
śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ / āpnuvanti / rādhnuvanti / śaknuvanti / dhātoḥ - cikṣiyatuḥ / cikṣiyuḥ / luluvatuḥ / luluvuḥ / niyau / niyaḥ / luvau / luvaḥ / bhruvau / bhruvaḥ / aci iti kim ? āpnuyāt / śaknuyāt / sādhnuyāt / śnudhātubhruvām iti kim ? lakṣmyau / vadhvai / yvoḥ iti kim ? cakratuḥ / cakruḥ / iyaṅuvaṅbhyāṃ guṇavṛddhī bhavato vipratiṣedhena / cayanam / cāyakaḥ / lavanam / lāvakaḥ / iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam / tanvaṃ puṣema / tanuvaṃ puṣema / viṣvaṃ puṣema / viṣuvaṃ puṣema / svargo lokaḥ / suvargo lokaḥ / tryambakaṃ yajāmahe / triyambakaṃ yajāmahe // abhyāsasya asavarṇe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.