पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन् । त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान् ॥ पक्ता । वक्ता । विवेक्ता । रेक्ता । रङ्क्ता । प्रष्टा । निर्णेक्ता । सेक्ता । मोक्ता । भक्ता । भङ्क्ता । भ्रष्टा, भर्ष्टा । त्यक्ता । यष्टा । योक्ता । रोक्ता । सङ्क्ता । मङ्क्ता । भोक्ता । परिष्वक्ता । स्रष्टा । मार्ष्टा । मृजिरयमूदित् पठ्यते, ततो ऽस्य विकल्पेन इटा भवितव्यम् । मार्ष्टा, मर्जिता इति, अमागमो ऽप्य् अस्य न दृश्यते ? तद् इह पाठस्य प्रयोजनं चिन्त्यम् । केचिद् अस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरान् इति । निजादिषु यो विजिरसौ अनिडिष्यते । तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्य् उक्तम् । एकाच इति किम् ? अवधीत् । वृद्धिनिवृत्त्यर्थमदन्तो विधिर् उपदिश्यते । उपदेशग्रहणं किम् ? इह च यथा स्यात्, लविष्यति, पचिष्यति । इह च मा भूत्, कर्ता कटान्, कर्तुम् इति ॥ श्र्य्-उकः किति
paciṃ vaciṃ viciricirañjipṛcchatīn nijiṃ siciṃ mucibhajibhañjibhṛjjātīn / tyajiṃ yajiṃ yujirujisañjimajjatīn bhujiṃ svajiṃ sṛjimṛjī viddhyaniṭsvarān // paktā / vaktā / vivektā / rektā / raṅktā / praṣṭā / nirṇektā / sektā / moktā / bhaktā / bhaṅktā / bhraṣṭā, bharṣṭā / tyaktā / yaṣṭā / yoktā / roktā / saṅktā / maṅktā / bhoktā / pariṣvaktā / sraṣṭā / mārṣṭā / mṛjirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam / mārṣṭā, marjitā iti, amāgamo 'py asya na dṛśyate ? tad iha pāṭhasya prayojanaṃ cintyam / kecid asya sthāne vijiṃ paṭhanti, sṛjiṃ vijiṃ viddhyaniṭsvarān iti / nijādiṣu yo vijirasau aniḍiṣyate / tathā ca tantrāntare nijivijiṣvañjivarjam ity uktam / ekāca iti kim ? avadhīt / vṛddhinivṛttyarthamadanto vidhir upadiśyate / upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati / iha ca mā bhūt, kartā kaṭān, kartum iti // śry-ukaḥ kiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.