पोतः । धूर्विता । धूर्वितुम् । धूर्तः । औणादिकस्य+एव तशब्दस्य ग्रहणम् इष्यते, न पुनः क्तस्य, हसितम् इत्य् एव हि तत्र भवति । थ - हनिकुषिनीरमिकाशिभ्यः क्थन् । कोषिता । कोषितुम् । कुष्ठम् । काशिता । काशितुम् । काष्ठम् । सि - प्लुषिशुषिकुषिभ्यः क्षिः । कोषिता । कोषितुम् । कुक्षिः । सुक् च इषेः । एषिता । एषितुम् । इक्षुः । अशेः क्षरन् । अशिता । अशितुम् । अक्षरम् । क - इण्भीकापाशल्यतिमर्चिभ्यः कन् । शलिता । शलितुम् । शल्कः । स - वॄतॄवदिहनिकमिकषिभ्यः सः । वदिता । वदितुम् । वत्सः । तितुत्रतथेष्वग्रहादीनाम् इति वक्तव्यम् । ग्रहादयो ग्रहप्रकाराः, येषाम् इट् क्तिनि दृश्यते । निगृहीतिः । उपस्निहितिः । निकुचितिः । निपठितिः । कृति इत्य् एव, रोदिति । स्वपिति ॥ एकाच उपदेशे ऽनुदात्तात्
potaḥ / dhūrvitā / dhūrvitum / dhūrtaḥ / auṇādikasya+eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam ity eva hi tatra bhavati / tha - hanikuṣinīramikāśibhyaḥ kthan / koṣitā / koṣitum / kuṣṭham / kāśitā / kāśitum / kāṣṭham / si - pluṣiśuṣikuṣibhyaḥ kṣiḥ / koṣitā / koṣitum / kukṣiḥ / suk ca iṣeḥ / eṣitā / eṣitum / ikṣuḥ / aśeḥ kṣaran / aśitā / aśitum / akṣaram / ka - iṇbhīkāpāśalyatimarcibhyaḥ kan / śalitā / śalitum / śalkaḥ / sa - vṝtṝvadihanikamikaṣibhyaḥ saḥ / vaditā / vaditum / vatsaḥ / titutratatheṣvagrahādīnām iti vaktavyam / grahādayo grahaprakārāḥ, yeṣām iṭ ktini dṛśyate / nigṛhītiḥ / upasnihitiḥ / nikucitiḥ / nipaṭhitiḥ / kṛti ity eva, roditi / svapiti // ekāca upadeśe 'nudāttāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.