निर् इत्य् एवं पूर्वात् कुष उत्तरस्य वलादेर् आर्धधातुकस्य वा इडागमो भवति । निष्कोष्टा, निष्कोषिता । निष्कोष्टुम्, निष्कोषितुम् । निष्कोष्टव्यम्, निष्कोषितव्यम् । निरः इति किम् ? कोषिता । कोषितुम् । कोषितव्यम् । निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तम् उपसर्गान्तरम् अस्ति इति ज्ञाप्यते । तस्य हि निलयनम् इति उपसर्गस्य अयतौ (*८,२।१९) इति लत्वं भवति । निसो हि रुत्वस्य असिद्धत्वाल् लत्वं न स्यात् ॥ इण् निष्ठायाम्
nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati / niṣkoṣṭā, niṣkoṣitā / niṣkoṣṭum, niṣkoṣitum / niṣkoṣṭavyam, niṣkoṣitavyam / niraḥ iti kim ? koṣitā / koṣitum / koṣitavyam / nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate / tasya hi nilayanam iti upasargasya ayatau (*8,2.19) iti latvaṃ bhavati / niso hi rutvasya asiddhatvāl latvaṃ na syāt // iṇ niṣṭhāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.