आकारस्य ङिदवयवस्य आकारान्ताद् अङ्गाद् उत्तरस्य सार्वधातुकस्य इय् इत्य् अयम् आदेशो भवति । पचेते पचेथे । पचेताम् । पचेथाम् । यजेते । यजेथे । यजेताम् । यजेथाम् । सार्वधातुकम् अपित् (*१,२।४) इत्य् अत्र न ङितीव ङिद्वत् इत्य् एवम् अङ्गीक्रियते, अपि तु ङित इव ङिद्वत् इति । पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम् । यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद् भवति इत्य् एवम् अङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् (*१,३।१२) इत्य् आत्मनेपदं प्रप्नोति इति । आतः इति किम् ? पचन्ति । यजन्ति । पचन्ते । यजन्ते । ङितः इति किम् ? पचावहै । पचामहै । अतः इत्य् एव, चिन्वाते । सुन्वाते । तपरकरणम् किम् ? मिमाते । मिमाथे ॥ आने मुक्
ākārasya ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati / pacete pacethe / pacetām / pacethām / yajete / yajethe / yajetām / yajethām / sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti / pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam / yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti / ātaḥ iti kim ? pacanti / yajanti / pacante / yajante / ṅitaḥ iti kim ? pacāvahai / pacāmahai / ataḥ ity eva, cinvāte / sunvāte / taparakaraṇam kim ? mimāte / mimāthe // āne muk
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.