वशादौ कृति प्रत्यये परतः इडागमो न भवति । वरमनादौ प्रयोजनम् । ईशिता । ईशितुम् । ईश्वरः । दीपिता । दीपितुम् । दीप्रः । भसिता । भसितुम् । भस्म । याचिता । आचितुम् । याच्ञा । वरमनादौ इत्य् उदाहरणप्रदर्शनार्थम्, न परिगणनम् । तेन ञमन्ताड्डः इत्य् एवम् आदाव् अपि हि प्रतिषेधो भवति । अथ तत्र उणादयो बहुलम् (*३,३।१) इति समाधीयते ? सम्भवोदाहरनप्रदर्शनम् एतत् । कृति इति किम् ? रुदिवः । रुदिमः ॥ ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च
vaśādau kṛti pratyaye parataḥ iḍāgamo na bhavati / varamanādau prayojanam / īśitā / īśitum / īśvaraḥ / dīpitā / dīpitum / dīpraḥ / bhasitā / bhasitum / bhasma / yācitā / ācitum / yācñā / varamanādau ity udāharaṇapradarśanārtham, na parigaṇanam / tena ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati / atha tatra uṇādayo bahulam (*3,3.1) iti samādhīyate ? sambhavodāharanapradarśanam etat / kṛti iti kim ? rudivaḥ / rudimaḥ // ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.