एकवचने इत्य् अनुवर्तते । प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्य् एताव् आदेशौ भवतः । तवायं त्वदीयः । मदीयः । अतिशयेन त्वम् त्वत्तरः । मत्तरः । त्वाम् इच्छति त्वद्यति । मद्यति । त्वमिवाचरति त्वद्यते । मद्यते । उत्तरपदे - तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । त्वं नाथो ऽस्य त्वन्नाथः । मन्नथः । एकवचने इत्य् एव, युष्माकमिदम् युष्मदीयम् । अस्मदीयम् । युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः । विभक्तौ इत्य् अधिकारात् पूर्वयोगो विभक्ताव् एव । ततो ऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यात् इत्य् अयम् आरम्भः । ननु चात्राप्यन्तर्वर्तिनी विभक्तिर् अस्ति, तस्याम् एव आदेशौ भविस्यतः ? न+एवं शक्यम्, लुका तस्या भवितव्यम् । बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः ? एतद् एव तर्हि आदेशवचनं ज्ञापकम् अन्तरङ्गान् अपि विधीन् बहिरङ्गो ऽपि लुक् बाधते इति । तेन गोमान् प्रियो ऽस्य गोमत्प्रियः इत्य् एवम् आदौ नुमादि लुका बाध्यते । एवं च सति त्वाहौ सौ (*७,२।९४) इत्य् एवम् आदयो ऽपि प्रत्ययोत्तर्पदयोर् आदेशा न भवन्ति । त्वं प्रधानम् एषां त्वत्प्रधानाः । मत्प्रधानाः । यूयं पुत्रा अस्य युष्मत्पुत्रः । अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम् । मद्धितम् । तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । अथ किमर्थ्म् एषां त्वाहादीनां बाधनार्थम् एतन् न विज्ञायते ? लक्ष्यस्थित्यपेक्षया । ज्ञाप्कार्थे ह्य् एतस्मिन् बहुतरमिष्टं सङ्गृह्यते ॥ त्रि-चतुरोः स्त्रियां तिसृ-चतसृ
ekavacane ity anuvartate / pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ / tavāyaṃ tvadīyaḥ / madīyaḥ / atiśayena tvam tvattaraḥ / mattaraḥ / tvām icchati tvadyati / madyati / tvamivācarati tvadyate / madyate / uttarapade - tava putraḥ tvatputraḥ / matputraḥ / tvaṃ nātho 'sya tvannāthaḥ / mannathaḥ / ekavacane ity eva, yuṣmākamidam yuṣmadīyam / asmadīyam / yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ / vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva / tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ / nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam / bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti / tena gomān priyo 'sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate / evaṃ ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti / tvaṃ pradhānam eṣāṃ tvatpradhānāḥ / matpradhānāḥ / yūyaṃ putrā asya yuṣmatputraḥ / asmatputraḥ tubhyaṃ hitaṃ tvaddhitam / maddhitam / tava putraḥ tvatputraḥ / matputraḥ / atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā / jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgṛhyate // tri-caturoḥ striyāṃ tisṛ-catasṛ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.