अतो दीर्घो यञि (*७,३।१०१) इत्य् अनुवर्तते । सुपि च यञादौ परतो ऽकारान्तस्य अङ्गस्य दीर्घो भवति । वृक्षाय । प्लक्षाय । वृक्षाभ्याम् । प्लक्षाभ्याम् । अतः इत्य् एव, अग्निभ्याम् । यञि इत्य् एव, वृक्षस्य । प्लक्षस्य ॥ बहुवचने झल्येत्
ato dīrgho yañi (*7,3.101) ity anuvartate / supi ca yañādau parato 'kārāntasya aṅgasya dīrgho bhavati / vṛkṣāya / plakṣāya / vṛkṣābhyām / plakṣābhyām / ataḥ ity eva, agnibhyām / yañi ity eva, vṛkṣasya / plakṣasya // bahuvacane jhalyet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.