बहुवचने झलादौ सुपि परतो ऽकारान्तस्य अङ्गस्य एकारादेशो भवति । व्कृक्षेभ्यः । प्लक्षेभ्यः । वृक्षेषु । प्लक्षेषु । बहुवचने इति किम् ? वृक्षाभ्याम् । प्लक्षाभ्याम् । झलि इति किम् ? वृक्षाणाम् । सुपि इत्य् एव, यजध्वम् । पचध्वम् ॥ ओसि च
bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati / vkṛkṣebhyaḥ / plakṣebhyaḥ / vṛkṣeṣu / plakṣeṣu / bahuvacane iti kim ? vṛkṣābhyām / plakṣābhyām / jhali iti kim ? vṛkṣāṇām / supi ity eva, yajadhvam / pacadhvam // osi ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.