सर्वभूमेः निमित्तं संयोगः उत्पातो वा सार्वभौमः । प्रयोग - तत्र भवः प्रायौगिकः । परस्त्री - पारस्त्रैणेयः । कुलटाया वा (*४,१।१२७) इति इनङ् । राजपुरुषात् ष्यञि । राजपौरुष्यम् । ष्यञि इति किम् ? राजपुरुषस्य अपत्यम् राजपुरुषायणिः । उदीचां वृद्धाद् अगोत्रात् (*४,१।१५७) इति फिञ् । शतकुम्भसुखशयनादयः - शतकुम्भे भवः शातकौम्भः । सौखशायनिकः । पारदारिकः । सूत्रनडस्य अपत्यम् सौत्रनाडिः । आकृतिगणश् च अयम् इष्यते । तेन इदमपि सिद्धं भवति, अभिगममर्हति आभिगामिकः । अधिदेवे भवम् आधिदैविकम् । आधिभौतिकम् । चतस्र एव विद्याः चातुर्वैद्यम् । स्वार्थे ष्यञ् । अनुशतिक । अनुहोड । अनुसंवरण । अनुसंवत्सर । अङ्गारवेणु । असिहत्य । वध्योग । पुष्करसद् । अनुहरत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । राजपुरुषात् ष्यञि । सूत्रनड । अनुशतिकादिः ॥ देवताद्वन्द्वे च
sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto vā sārvabhaumaḥ / prayoga - tatra bhavaḥ prāyaugikaḥ / parastrī - pārastraiṇeyaḥ / kulaṭāyā vā (*4,1.127) iti inaṅ / rājapuruṣāt ṣyañi / rājapauruṣyam / ṣyañi iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ / udīcāṃ vṛddhād agotrāt (*4,1.157) iti phiñ / śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ / saukhaśāyanikaḥ / pāradārikaḥ / sūtranaḍasya apatyam sautranāḍiḥ / ākṛtigaṇaś ca ayam iṣyate / tena idamapi siddhaṃ bhavati, abhigamamarhati ābhigāmikaḥ / adhideve bhavam ādhidaivikam / ādhibhautikam / catasra eva vidyāḥ cāturvaidyam / svārthe ṣyañ / anuśatika / anuhoḍa / anusaṃvaraṇa / anusaṃvatsara / aṅgāraveṇu / asihatya / vadhyoga / puṣkarasad / anuharat / kurukata / kurupañcāla / udakaśuddha / ihaloka / paraloka / sarvaloka / sarvapuruṣa / sarvabhūmi / prayoga / parastrī / rājapuruṣāt ṣyañi / sūtranaḍa / anuśatikādiḥ // devatādvandve ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.