उदात्तोपदेशस्य मान्तस्य अनाचमेः (*७,३।३४) । उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यद् उक्तं तन् न भवति । किं च उक्तम् ? अत उपधायाः (*७,२।११६) इति वृद्धिः । अशमि । अतमि । अदमि । कृति खल्व् अपि - शमकः । तमकः । दमकः । शमः । तमः । दमः । उदात्तोपदेशस्य इति किम् ? यामकः । रामकः । कथम् उद्यमोपरमौ ? अड उद्यमे, यम उपरमे इति निपातनाद् अनुगन्तव्यौ । उपदेशग्रहणम् किम् ? शमी, दमी, तमी इत्य् अत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति । मान्तस्य इति किम् ? चारकः । पाठकः । अनाचमेः इति किम् ? आचामकः । अनाचमिकमिवमीनाम् इति वक्तव्यम् । आचामः । कामः । वामः । आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति । तत्र हि मित्त्वं न अस्ति न अन्ये मितो ऽहेतौ इति । सूर्यविश्रामा भूमिः इत्य् एवम् आदिकं प्रयोगमन्याय्यम् एव मन्यन्ते । चिण्कृतोः इत्य् एव, शशाम । तताम ॥ जनि-वध्योश् च
udāttopadeśasya māntasya anācameḥ (*7,3.34) / udātopadeśasya māntasya aṅgasya ācamivarjitasya ciṇi kṛti ca ñṇiti yad uktaṃ tan na bhavati / kiṃ ca uktam ? ata upadhāyāḥ (*7,2.116) iti vṛddhiḥ / aśami / atami / adami / kṛti khalv api - śamakaḥ / tamakaḥ / damakaḥ / śamaḥ / tamaḥ / damaḥ / udāttopadeśasya iti kim ? yāmakaḥ / rāmakaḥ / katham udyamoparamau ? aḍa udyame, yama uparame iti nipātanād anugantavyau / upadeśagrahaṇam kim ? śamī, damī, tamī ity atra yathā syāt, iha mā bhūt, yāmakaḥ, rāmakaḥ iti / māntasya iti kim ? cārakaḥ / pāṭhakaḥ / anācameḥ iti kim ? ācāmakaḥ / anācamikamivamīnām iti vaktavyam / ācāmaḥ / kāmaḥ / vāmaḥ / āmaḥ iti caurādikasya ṇici vṛddhau satyāṃ bhavati / tatra hi mittvaṃ na asti na anye mito 'hetau iti / sūryaviśrāmā bhūmiḥ ity evam ādikaṃ prayogamanyāyyam eva manyante / ciṇkṛtoḥ ity eva, śaśāma / tatāma // jani-vadhyoś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.